He Ganesh! Tava pavan charanau
गणेश–वन्दना — मूल पाठ व अर्थ
गणेश–वन्दना
हे गणेश! तव पावनचरणौ,
सर्वे वयं सदा प्रणमामः।
दोहि देव! सद्विधां नस्त्वं,
दूरी-कुरु मनसः अज्ञानम्।।
साञ्जलि-वयं नमस्कुर्मः त्वां,
कृत्वा तव पदपद्मध्यानम्।
रक्ष सर्वदा हेरम्ब! त्वं
देव! तव शरणं गच्छामः।।
हे गणेश! तव पावनचरणौ,
सर्वे वयं सदा प्रणमामः।।